|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.9. अध्यायः 009
Mahabharata - Sabha Parva - Chapter Topics
वरुणसभावर्णनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
नारद उवाच॥
युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा।
प्रमाणेन यथा याम्या शुभप्राकारतोरणा॥ 2-9-1(11638)
अन्तः सलिलमास्थाय विहिता विश्वकर्मणा।
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता॥ 2-9-2(11639)
नीलपीतैः सिताः श्यामैः सितैर्लोहितकैरपि।
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः॥ 2-9-3(11640)
तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः।
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः॥ 2-9-4(11641)
सा सभा सुखसंस्पर्शा न शीता न च धर्मदा।
वेश्मासनवती रम्या सिता वरुणपालिता॥ 2-9-5(11642)
यस्यामास्ते स वरुणो वारुण्या च समन्वितः।
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः॥ 2-9-6(11643)
`द्वितीयेन तु नाम्ना वै गौरीति भुवि विश्रुता।
पत्न्या सवरुणो देवः प्रमोदति सुखी सुखम्'॥ 2-9-7(11644)
स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः।
आदित्यास्तत्र वरुणं जलेश्वरमुपासते॥ 2-9-8(11645)
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा।
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्॥ 2-9-9(11646)
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ।
मणिमान्कुण्डधारश्च कर्कोटकधनञ्जयौ॥ 2-9-10(11647)
पाणिमान्कुण्डधारश्च बलवान्पृथिवीपते।
प्रह्रादो मुषिकादश्च तथैव जनमेजयः ॥ 2-9-11(11648)
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः।
` अर्थो धर्मश्च कामश्च वसुः कपिल एव च॥ 2-9-12(11649)
अनन्तश्च महानागो यं दृष्ट्वा जलजेश्वरः।
अभ्यर्चयति सत्कारैरासनेन च तं विभुः॥ 2-9-13(11650)
वासुकिप्रमुखाश्चैव सर्वे प्राञ्जलयः स्थिताः।
अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च॥ 2-9-14(11651)
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर।
`वैनतेयश्च गरुडो ये चास्य परिचारिणः'।
उपासते महात्मानं वरुणं विगतक्लमाः॥ 2-9-15(11652)
बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः।
संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः॥ 2-9-16(11653)
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः।
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा॥ 2-9-17(11654)
विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः।
दशग्रीवश्च वाली च मेघवासा दशावरः॥ 2-9-18(11655)
टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः।
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः॥ 2-9-19(11656)
स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः॥ 2-9-20(11657)
ते तस्यां वरुणं देवं धर्मपाशधरं सदा।
उपासते महात्मानं सर्वे सुचरितव्रताः॥ 2-9-21(11658)
तथा समुद्राश्चत्वारो नदी भागीरथी च सा।
कालिन्दी विदिशा वेणा नर्दमा वेगवाहिनी॥ 2-9-22(11659)
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती।
इरावती वितस्ता च सिन्धुर्देवनदी तथा॥ 2-9-23(11660)
गोदावरी कृष्णवेणी कावेरी च सरिद्वरा।
किम्पुना च विशल्या च तथा वैतरणी नदी॥ 2-9-24(11661)
तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः।
चर्मण्वती तथा चैव पर्णाशा च महानदी॥ 2-9-25(11662)
सरयूर्वारवत्याऽथ लाङ्गली च सरिद्वरा।
करतोया तथाऽऽत्रेयी लौहित्यश्च महानदः॥ 2-9-26(11663)
लङ्घती गोमती चैव सन्ध्या त्रिस्रोतसी तथा।
एताश्चन्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः॥ 2-9-27(11664)
सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च।
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर। 2-9-28(11665)
पल्वलानि तटाकानि देहवन्त्यथ भारत।
दिशस्तथा मही चैव तथा सर्वे महीधराः॥ 2-9-29(11666)
उपासते महात्मानं सर्वे जलचरास्तथा।
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः॥ 2-9-30(11667)
स्तुवन्तो वरुणं तस्यां सर्व एव समासते।
महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः॥ 2-9-31(11668)
कथयन्तः सुमधुराः कथास्तत्र समासते।
वारुणश्च तथा मन्त्री सुनाभः पर्युपासते॥ 2-9-32(11669)
पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च।
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते॥ 2-9-33(11670)
एषा मया सम्पतता वारुणी भरतर्षभ।
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु॥ ॥ 2-9-34(11671)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि नवमोऽध्यायः॥ 9॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-9-34 सम्पतता समागच्छता॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|